६.१०२.६

दीर्घमुष्णं च निश्वस्य मेदिनीमवलोकयन् ।
उवाच मेघसंकाशं विभीषणमुपस्थितम् ॥

अन्वयः

दीर्घम् long, उष्णम् hot, विनिःश्वस्य drawing breath, जगतीम् on the world, अवलोकयन् looking at, उपस्थितम् standing, मेघसङ्काशम् resembling a cloud in colour, विभीषणम् Vibheeshana, उवाच spoke

Summary

Drawing a long hot breath, looking at the ground, he spoke to Vibheeshana, who was like a cloud standing there.

पदच्छेदः

दीर्घम्दीर्घ (२.१)
उष्णंउष्ण (२.१)
(अव्ययः)
निश्वस्यनिश्वस्य (√नि-श्वस् + ल्यप्)
मेदिनीम्मेदिनी (२.१)
अवलोकयन्अवलोकयत् (√अव-लोकय् + शतृ, १.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
मेघसंकाशंमेघ–संकाश (२.१)
विभीषणम्विभीषण (२.१)
उपस्थितम्उपस्थित (√उप-स्था + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दीर्घ मु ष्णं नि श्वस्य
मेदि नी लो यन्
वा मे सं का शं
वि भीमुस्थि तम्