६.१०३.११

पश्यतस्तां तु रामस्य भूयः क्रोधोऽभ्यवर्तत ।
प्रभूताज्यावसिक्तस्य पावकस्येव दीप्यतः ॥

पदच्छेदः

पश्यतस्तांपश्यत् (√दृश् + शतृ, ६.१)–तद् (२.१)
तुतु (अव्ययः)
रामस्यराम (६.१)
भूयःभूयस् (अव्ययः)
क्रोधोक्रोध (१.१)
ऽभ्यवर्ततअभ्यवर्तत (√अभि-वृत् लङ् प्र.पु. एक.)
प्रभूताज्यावसिक्तस्यप्रभूत–आज्य–अवसिक्त (√अव-सिच् + क्त, ६.१)
पावकस्येवपावक (६.१)–इव (अव्ययः)
दीप्यतःदीप्यत् (√दीप् + शतृ, ६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्य स्तांतु रास्य
भू यः क्रो धोऽभ्यर्त
प्र भू ता ज्या सि क्तस्य
पा स्ये दीप्य तः