६.१०३.१२

स बद्ध्वा भ्रुकुटिं वक्त्रे तिर्यक्प्रेक्षितलोचनः ।
अब्रवीत्परुषं सीतां मध्ये वानररक्षसाम् ॥

पदच्छेदः

तद् (१.१)
बद्ध्वाबद्ध्वा (√बन्ध् + क्त्वा)
भ्रुकुटिंभ्रुकुटि (२.१)
वक्त्रेवक्त्र (७.१)
तिर्यक्प्रेक्षितलोचनःतिर्यञ्च्–प्रेक्षित (√प्र-ईक्ष् + क्त)–लोचन (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
परुषंपरुष (२.१)
सीतांसीता (२.१)
मध्येमध्य (७.१)
वानररक्षसाम्वानर–रक्षस् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्ध्वाभ्रुकु टिं क्त्रे
ति र्य क्प्रेक्षि लो नः
ब्र वीत्परु षं सी तां
ध्ये वाक्ष साम्