६.१०३.९

निर्गुणं भ्रातरं त्यक्त्वा यो मां स्वयमुपस्थितः ।
विभीषणस्य भक्तस्य सफलोऽद्य परिश्रमः ॥

पदच्छेदः

निर्गुणंनिर्गुण (२.१)
भ्रातरंभ्रातृ (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
योयद् (१.१)
मांमद् (२.१)
स्वयम्स्वयम् (अव्ययः)
उपस्थितःउपस्थित (√उप-स्था + क्त, १.१)
विभीषणस्यविभीषण (६.१)
भक्तस्यभक्त (६.१)
सफलोसफल (१.१)
ऽद्यअद्य (अव्ययः)
परिश्रमःपरिश्रम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निर्गु णं भ्रा रं त्य क्त्वा
यो मांस्वमुस्थि तः
वि भीस्य क्तस्य
लोऽद्य रिश्र मः