६.१०५.१०

आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।
योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे ॥

अन्वयः

आत्मानम् I am, दशरथात्मजम् Dasharatha's son, मानुषम् human, रामम् Rama, मन्ये thinking, सः he, अहम् I, यस्य from where, अहम् I, यश्च whence, तत् that, भगवान् divine, मे me, ब्रवीतु tell

M N Dutt

I know myself to be man-Rama, the son of Dasaratha. Let the great Patriarch tell me, who I am and whence I have come.

Summary

"I am Dasharatha's son, a human and thinking to be Rama. Tell me O divine creator, from where and whence I am here."

पदच्छेदः

आत्मानंआत्मन् (२.१)
मानुषंमानुष (२.१)
मन्येमन्ये (√मन् लट् उ.पु. )
रामंराम (२.१)
दशरथात्मजम्दशरथ–आत्मज (२.१)
योयद् (१.१)
ऽहंमद् (१.१)
यस्ययद् (६.१)
यतश्चाहंयतस् (अव्ययः)–च (अव्ययः)–मद् (१.१)
भगवांस्तद्भगवन्त् (१.१)–तद् (२.१)
ब्रवीतुब्रवीतु (√ब्रू लोट् प्र.पु. एक.)
मेमद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्मा नं मानु षं न्ये
रा मं थात्म जम्
यो ऽहंस्य श्चा हं
वां स्तद्ब्र वीतु मे