६.१०५.१३

अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव ।
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ॥

अन्वयः

अक्षरम् imperishable, मध्ये च in the midst, अन्ते च and end, सत्यं च truth, ब्रह्म Brahma, त्वम् you, लोकानाम् in the world, परः, धर्मः dharma, विष्वक्सेनः all pervading, चतुर्भुजः four shouldered

Summary

"You are the imperishable Brahma in the midst or end, abiding in truth. You are dharma, all pervading four shouldered Vishnu in the world."

पदच्छेदः

अक्षरंअक्षर (१.१)
ब्रह्मसत्यंब्रह्मन्–सत्य (१.१)
(अव्ययः)
मध्येमध्य (७.१)
चान्ते (अव्ययः)–अन्त (७.१)
(अव्ययः)
राघवराघव (८.१)
लोकानांलोक (६.३)
त्वंत्वद् (१.१)
परोपर (१.१)
धर्मोधर्म (१.१)
विष्वक्सेनश्चतुर्भुजःविष्वक्सेन (१.१)–चतुर्भुज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष रं ब्रह्म त्यं
ध्ये चा न्ते रा
लो का नां त्वं रो र्मो
वि ष्व क्सेश्च तुर्भु जः