६.१०६.२०

इतीदमुक्त्वा वचनं महाबलैः; प्रशस्यमानः स्वकृतेन कर्मणा ।
समेत्य रामः प्रियया महाबलः; सुखं सुखार्होऽनुबभूव राघवः ॥

M N Dutt

Saying this, the victorious, highly powerful, well renowned Rāghava, worthy of enjoying happiness, and having his praise chanted in consequence of his noble action, regaining his spouse, attained to happiness.

पदच्छेदः

इतीदम्इति (अव्ययः)–इदम् (२.१)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
वचनंवचन (२.१)
महाबलैःमहत्–बल (३.३)
प्रशस्यमानःप्रशस्यमान (√प्र-शंस् + शानच्, १.१)
स्वकृतेनस्व–कृत (√कृ + क्त, ३.१)
कर्मणाकर्मन् (३.१)
समेत्यसमेत्य (√समा-इ + ल्यप्)
रामःराम (१.१)
प्रिययाप्रिया (३.१)
महाबलःमहत्–बल (१.१)
सुखंसुख (२.१)
सुखार्होसुख–अर्ह (१.१)
ऽनुबभूवअनुबभूव (√अनु-भू लिट् प्र.पु. एक.)
राघवःराघव (१.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
ती मु क्त्वा नं हा लैः
प्रस्य मा नःस्वकृ तेर्म णा
मेत्य रा मःप्रि या हा लः
सु खंसु खा र्होऽनु भू रा वः