६.१०७.१४

कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर ।
तव प्रव्राजनार्थानि स्थितानि हृदये मम ॥

अन्वयः

वदताम् speaking, वर best, तव your, प्रव्राजनार्थानि send you with a motive, यानि those, वाक्यानि utterances, कैकेय्या of Kaikeyi, उक्तानि spoken, तानि those, मम my, हृदये heart, स्थितानि still hurt

M N Dutt

O you the foremost of those skilled in speech, I have still in my mind the words which were uttered by Kaikeyi for sending you away to the woods.

Summary

"Those utterances of Kaikeyi with a motive to send you on exile are still hurting my heart, O Best among speakers!"

पदच्छेदः

कैकेय्याकैकेयी (३.१)
यानियद् (१.३)
चोक्तानि (अव्ययः)–उक्त (√वच् + क्त, १.३)
वाक्यानिवाक्य (१.३)
वदतांवदत् (√वद् + शतृ, ६.३)
वरवर (८.१)
तवत्वद् (६.१)
प्रव्राजनार्थानिप्रव्राजन–अर्थ (१.३)
स्थितानिस्थित (√स्था + क्त, १.३)
हृदयेहृदय (७.१)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कै के य्या यानि चो क्तानि
वा क्यानि तां
प्र व्रा ना र्थानि
स्थि तानिहृ ये