६.१०८.१५

गच्छायोध्यामितो वीर विसर्जय च वानरान् ।
मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ॥

अन्वयः

राजन् king, इतः from here, अयोध्याम् Ayodhya, गच्छ return, वानरान् Vanaras, विसर्जय च leaving, अनुरक्ताम् very dear, यशस्विनीम् illustrious, एनाम् this, मैथिलीम् Mythili, सान्त्वयस्व assuring

Summary

"King, return from here to Ayodhya leaving the monkeys. Reassure Mythili, who is very dear to you and an illustrious one."

पदच्छेदः

गच्छायोध्याम्गच्छ (√गम् लोट् म.पु. )–अयोध्या (२.१)
इतोइतस् (अव्ययः)
वीरवीर (८.१)
विसर्जयविसर्जय (√वि-सर्जय् लोट् म.पु. )
(अव्ययः)
वानरान्वानर (२.३)
मैथिलींमैथिली (२.१)
सान्त्वयस्वैनाम्सान्त्वयस्व (√सान्त्वय् लोट् म.पु. )–एनद् (२.१)
अनुरक्तांअनुरक्त (√अनु-रञ्ज् + क्त, २.१)
तपस्विनीम्तपस्विनी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छा यो ध्यामि तो वी
विर्ज वा रान्
मैथि लीं सान्त्व स्वै ना
नु क्तांस्वि नीम्