६.११.१७

रावणस्यानुजो भ्राता विभीषण इति श्रुतः ।
चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥

अन्वयः

विभीषणःइति: thus Vibheeshana, श्रुतः heard, रावणस्य: Ravana's, अनुजःभ्रातः younger brother, चतुर्भिः all the four, रक्षोभिःसह: along with Rakshasas, भवन्तम्: to you शरणम् protection, गतः sought.

M N Dutt

Ravana's younger brother, known Vibilisana, uc come here with four Raksasas, to seck your shelter.

Summary

"Ravana's younger brother, known as Vibheeshana, along with four Rakshasas has come to you seeking protection."

पदच्छेदः

रावणस्यानुजोरावण (६.१)–अनुज (१.१)
भ्राताभ्रातृ (१.१)
विभीषणविभीषण (१.१)
इतिइति (अव्ययः)
श्रुतःश्रुत (√श्रु + क्त, १.१)
चतुर्भिःचतुर् (३.३)
सहसह (अव्ययः)
रक्षोभिर्रक्षस् (३.३)
भवन्तंभवत् (२.१)
शरणंशरण (२.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा स्यानु जो भ्रा ता
वि भी तिश्रु तः
तु र्भिः क्षोभि
र्भ न्तं णं तः