६.११.३३

यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम् ।
गुणान्वापि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप ॥

अन्वयः

नृप: king, तस्मिन् in him, महान् great, दोषःयदि: if one has bad qualities, अविशङ्कितम् no doubt, त्यज्यताम् to be rejected, बहून् many, गुणान् virtues, ज्ञात्वावापि: knowing them also, सङ्ग्रहः let us take, क्रियताम् we will.

M N Dutt

Do you renounce him unhesitatingly, if did you find in him a source of a great calamity and do you embrace him if did you find him crowned with many virtues.

Summary

"If there are great bad qualities (in Vibheeshana) no doubt he has to be rejected. If there are many virtues let us take him knowing them also."

पदच्छेदः

यदियदि (अव्ययः)
दोषोदोष (१.१)
महांस्तस्मिंस्त्यज्यताम्महत् (१.१)–तद् (७.१)–त्यज्यताम् (√त्यज् प्र.पु. एक.)
अविशङ्कितम् (अव्ययः)–विशङ्कित (√वि-शङ्क् + क्त, २.१)
गुणान्गुण (२.३)
वापिवा (अव्ययः)–अपि (अव्ययः)
बहूञ्बहु (२.३)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
संग्रहःसंग्रह (१.१)
क्रियतांक्रियताम् (√कृ प्र.पु. एक.)
नृपनृप (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि दो षो हां स्त स्मिं
स्त्यज्य ताविङ्कि तम्
गु णा न्वापि हू ञ्ज्ञा त्वा
संग्र हःक्रि तांनृ