६.११.५७

उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम् ।
वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम् ॥

M N Dutt

Considering well your preparations for war and Ravana's vain conduct, hearing of Vah's destruction and Sugrīva's installation on the throne he has, impelled by his good sense, come here, desirous of gaining the kingdom. Taking these into account, it seems prudent to take him to our side.

पदच्छेदः

उद्योगंउद्योग (२.१)
तवत्वद् (६.१)
सम्प्रेक्ष्यसम्प्रेक्ष्य (√सम्प्र-ईक्ष् + ल्यप्)
मिथ्यावृत्तंमिथ्या (अव्ययः)–वृत्त (√वृत् + क्त, २.१)
(अव्ययः)
रावणम्रावण (२.१)
वालिनश्चवालिन् (६.१)–च (अव्ययः)
वधंवध (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
सुग्रीवंसुग्रीव (२.१)
चाभिषेचितम् (अव्ययः)–अभिषेचित (√अभि-सेचय् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्यो गं सं प्रेक्ष्य
मि थ्या वृ त्तं रा णम्
वालिश्च धं श्रु त्वा
सु ग्री वं चाभि षेचि तम्