६.११.५८

राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः ।
एतावत्तु पुरस्कृत्य युज्यते त्वस्य संग्रहः ॥

पदच्छेदः

राज्यंराज्य (२.१)
प्रार्थयमानश्चप्रार्थयमान (√प्र-अर्थय् + शानच्, १.१)–च (अव्ययः)
बुद्धिपूर्वम्बुद्धि–पूर्वम् (अव्ययः)
इहागतःइह (अव्ययः)–आगत (√आ-गम् + क्त, १.१)
एतावत्एतावत् (२.१)
तुतु (अव्ययः)
पुरस्कृत्यपुरस्कृत्य (√पुरस्-कृ + ल्यप्)
युज्यतेयुज्यते (√युज् प्र.पु. एक.)
त्वस्यतु (अव्ययः)–इदम् (६.१)
संग्रहःसंग्रह (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा ज्यं प्रार्थ माश्च
बुद्धि पूर्वमि हा तः
तात्तुपु स्कृत्य
युज्य ते त्वस्य संग्र हः