६.११.८

तेषां संभाषमाणानामन्योन्यं स विभीषणः ।
उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥

अन्वयः

विभीषणः Vibheeshana, उत्तरम् northern, तीरम् shore, आसाद्य: having reached तेषाम् there, अन्योन्यम् one to the other, सम्भाषमाणानाम् started conversing, खस्थःएव: in the sky, व्यतिष्ठत: stayed.

M N Dutt

They addressing each other in this wise, Vibhīşaņa descended from the sky on the northern shore.

Summary

As they (Vanaras) started conversing, Vibheeshana, having reached the northern shore, stayed in the sky.

पदच्छेदः

तेषांतद् (६.३)
सम्भाषमाणानाम्सम्भाषमाण (√सम्-भाष् + शानच्, ६.३)
अन्योन्यंअन्योन्य (२.१)
तद् (१.१)
विभीषणःविभीषण (१.१)
उत्तरंउत्तर (२.१)
तीरम्तीर (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
खस्थ–स्थ (१.१)
एवएव (अव्ययः)
व्यतिष्ठतव्यतिष्ठत (√वि-स्था लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते षां सं भा मा णा ना
न्यो न्यंवि भी णः
त्त रं ती मा साद्य
स्थव्य तिष्ठ