६.११०.१

उपस्थितं तु तं दृष्ट्वा पुष्पकं पुष्पभूषितम् ।
अविदूरे स्थितं रामं प्रत्युवाच विभीषणः ॥

अन्वयः

विभीषणःVibheeshana, पुष्पभूषितम् decorated with flowers, तम् that, पुष्पकम् Pushpaka, उपस्थितम् seated, कृत्वा having, अविदूरे little distance, स्थितः stood, रामम् Rama, इति this, उवाच spoke

Summary

Offering to Sri Rama the Pushpak decorated with flowers to sit, Vibheeshana stood at a distance and spoke.

पदच्छेदः

उपस्थितंउपस्थित (√उप-स्था + क्त, २.१)
तुतु (अव्ययः)
तंतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
पुष्पकंपुष्पक (२.१)
पुष्पभूषितम्पुष्प–भूषित (√भूषय् + क्त, २.१)
अविदूरेअविदूर (७.१)
स्थितंस्थित (√स्था + क्त, २.१)
रामंराम (२.१)
प्रत्युवाचप्रत्युवाच (√प्रति-वच् लिट् प्र.पु. एक.)
विभीषणःविभीषण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्थि तंतु तं दृ ष्ट्वा
पुष्प कं पुष्प भूषि तम्
वि दू रेस्थि तं रा मं
प्रत्यु वावि भी णः