६.११०.१७

दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ।
अचिरेणागमिष्यामः स्वान्गृहान्नृपतेः सुत ॥

अन्वयः

नृपसत्तम jewel among kings, अभिषेकार्द्रम् getting consecrated, त्वाम् you, दृष्टवा seeing, कौसल्याम् Kausalya, अभिवाद्य च greeting, अचिरात् soon, स्वगृहान् own house, अगमिष्यामः will return

M N Dutt

Beholding you installed and bowing to Kausalya, we shall soon return to our respective homes, O foremost of kings.

Summary

"O Jewel among kings! We will see you being consecrated and see Kausalya, greet her and return back to our own house."

पदच्छेदः

दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
त्वाम्त्वद् (२.१)
अभिषेकार्द्रंअभिषेक–आर्द्र (२.१)
कौसल्याम्कौसल्या (२.१)
अभिवाद्यअभिवाद्य (√अभि-वादय् + ल्यप्)
(अव्ययः)
अचिरेणागमिष्यामःअचिरेण (अव्ययः)–आगमिष्यामः (√आ-गम् लृट् उ.पु. द्वि.)
स्वान्स्व (२.३)
गृहान्नृपतेःगृह (२.३)–नृपति (६.१)
सुतसुत (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ ष्ट्वा त्वाभि षे का र्द्रं
कौ ल्याभि वाद्य
चि रे णा मि ष्या मः
स्वान्गृ हान्नृ तेःसु