६.११०.२२

तेष्वारूढेषु सर्वेषु कौबेरं परमासनम् ।
राघवेणाभ्यनुज्ञातमुत्पपात विहायसं ॥

अन्वयः

तेषु those, सर्वेषु all, आरूढेषु having got in, कौबेरम् Kubera's, परमासनम् supreme seat, राघवेण by Raghava, अभ्यनुज्ञातम् with his permission, विहायसम् sky, उत्पपात flew

M N Dutt

They all having got up, the excellent car, of Kuvera at the command of Raghava, rose up in the welkin.

Summary

All the Vanaras and others having got into Kubera's Pushpaka with Rama's permission, it flew into the sky.

पदच्छेदः

तेष्वारूढेषुतद् (७.३)–आरूढ (√आ-रुह् + क्त, ७.३)
सर्वेषुसर्व (७.३)
कौबेरंकौबेर (२.१)
परमासनम्परम–आसन (२.१)
राघवेणाभ्यनुज्ञातम्राघव (३.१)–अभ्यनुज्ञात (√अभ्यनु-ज्ञा + क्त, १.१)
उत्पपातउत्पपात (√उत्-पत् लिट् प्र.पु. एक.)
विहायसंविहायस् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते ष्वा रू ढेषु र्वेषु
कौ बे रं मा नम्
रा वे णाभ्य नु ज्ञा
मुत्प पावि हा सं