६.११०.८

एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः ।
रत्नार्थैः संविभागेन सर्वानेवान्वपूजयत् ॥

अन्वयः

रामेण by Rama, एवम् in that way, उक्तः spoken, विभीषणः Vibheeshana, सर्वानेव all, तान् वानरान् those Vanaras, रत्नार्थसम्विभागेन with gems, gold and valuables, अभ्यपूजयत् honoured them very much

M N Dutt

Being thus accosted by Rāma, Vibhīşaņa with a distribution of jewels and riches, honoured all those monkeys.

Summary

Vibheeshana honoured the Vanaras with gems and valuables, after Rama had spoken like that.

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्तुउक्त (√वच् + क्त, १.१)–तु (अव्ययः)
रामेणराम (३.१)
वानरांस्तान्वानर (२.३)–तद् (२.३)
विभीषणःविभीषण (१.१)
रत्नार्थैःरत्न–अर्थ (३.३)
संविभागेनसंविभाग (३.१)
सर्वान्सर्व (२.३)
एवान्वपूजयत्एव (अव्ययः)–अन्वपूजयत् (√अनु-पूजय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्तु रा मे
वा रां स्तान्वि भी णः
त्ना र्थैः संवि भा गे
र्वा ने वान्व पू यत्