६.१११.२४

एते ते तापसावासा दृश्यन्ते तनुमध्यमे ।
अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः ।
अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥

अन्वयः

तनुमध्यमे of slender waist, एते there, हि is, तापसाः ascetics, वासा abodes, दृश्यन्ते is seen, यत्र there, सूर्यवैश्वानरोपमः like sun and fire, अत्रिः Atri, कुलपतिः head

Summary

"There are seen the abodes of ascetics. Here was seen by you hermitage of Atri (whose wife Anasuya you had seen) glowing like sun and fire."

पदच्छेदः

एतेएतद् (१.३)
तेतद् (१.३)
तापसावासातापस–आवास (१.३)
दृश्यन्तेदृश्यन्ते (√दृश् प्र.पु. बहु.)
तनुमध्यमेतनु–मध्यम (८.१)
अत्रिःअत्रि (१.१)
कुलपतिर्कुल–पति (१.१)
यत्रयत्र (अव्ययः)
सूर्यवैश्वानरप्रभःसूर्य–वैश्वानर–प्रभा (१.१)
अत्रअत्र (अव्ययः)
सीतेसीता (८.१)
त्वयात्वद् (३.१)
दृष्टादृष्ट (√दृश् + क्त, १.१)
तापसीतापसी (१.१)
धर्मचारिणीधर्म–चारिन् (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
ते ते ता सा वा सा दृ श्य न्ते
नुध्य मे त्रिःकु ति र्यत्र
सूर्य वै श्वाप्र भःत्र सी ते
त्व या दृ ष्टा ता सीर्म चारि णी