६.१११.२९

एषा सा दृश्यतेऽयोध्या राजधानी पितुर्मम ।
अयोध्यां कुरु वैदेहि प्रणामं पुनरागता ॥

अन्वयः

सीते Sita, एषा this, मम my, पितुः father, साराजधानी that capital, दृश्यते you see, वैदेहि Vaidehi, पुनः again, आगता reached, अयोध्याम् Ayodhya, प्रणामम् salutations, कुरु offer

M N Dutt

Behold there the city of ſîngavera, where I made friendship with Guha. Behold there, O Sītā, the capital of my father. Do you bow to Ayodhya, O Vaidehi.

Summary

Sita! My father's capital Ayodhya is seen. We have come here. Offer your salutations."

पदच्छेदः

एषाएतद् (१.१)
सातद् (१.१)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
ऽयोध्याअयोध्या (१.१)
राजधानीराजधानी (१.१)
पितुर्पितृ (६.१)
मममद् (६.१)
अयोध्यांअयोध्या (२.१)
कुरुकुरु (√कृ लोट् म.पु. )
वैदेहिवैदेही (८.१)
प्रणामंप्रणाम (२.१)
पुनर्पुनर् (अव्ययः)
आगताआगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

षा सा दृश्य ते ऽयो ध्या
रा धा नीपि तुर्म
यो ध्यांकुरु वै देहि
प्र णा मंपु रा ता