६.१११.३१

ततस्तु तां पाण्डुरहर्म्यमालिनीं; विशालकक्ष्यां गजवाजिसंकुलाम् ।
पुरीमयोध्यां ददृशुः प्लवंगमाः; पुरीं महेन्द्रस्य यथामरावतीम् ॥

M N Dutt

Thereupon the monkeys and Rākşasas beheld the city abounding in white houses having spacious compartments, filled with elephants and horses and looking like Amarāvati, the capital of Mahendra.

पदच्छेदः

ततस्तुततस् (अव्ययः)–तु (अव्ययः)
तांतद् (२.१)
पाण्डुरहर्म्यमालिनींपाण्डुर–हर्म्य–मालिन् (२.१)
विशालकक्ष्यांविशाल–कक्ष्या (२.१)
गजवाजिसंकुलाम्गज–वाजिन्–संकुल (२.१)
पुरीम्पुरी (२.१)
अयोध्यांअयोध्या (२.१)
ददृशुःददृशुः (√दृश् लिट् प्र.पु. बहु.)
प्लवंगमाःप्लवंगम (१.३)
पुरींपुरी (२.१)
महेन्द्रस्यमहत्–इन्द्र (६.१)
यथामरावतीम्यथा (अव्ययः)–अमरावती (२.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
स्तु तां पाण्डुर्म्य मालि नीं
वि शा क्ष्यां वाजि संकु लाम्
पु री यो ध्यांदृ शुःप्ल वं माः
पु रीं हे न्द्रस्य था रा तीम्