६.१११.४

एतदायोधनं पश्य मांसशोणितकर्दमम् ।
हरीणां राक्षसानां च सीते विशसनं महत् ॥

अन्वयः

सीते Sita, मांसशोणितकर्दमम् mire of flesh and blood, हरीणाम् monkeys, राक्षसानां च and Rakshasas, विशसनम् carnage, महत् many, एतत् all these, अयोधनम् battlefield, पश्य see

M N Dutt

Behold, O Sītā, that huge arena of battle, bathed in the blood and flesh of the monkeys and Raksasas.

Summary

"Sita, see the mire of flesh and blood of the carnage of many monkeys and Rakshasas on the battlefield."

पदच्छेदः

एतद्एतद् (२.१)
आयोधनंआयोधन (२.१)
पश्यपश्य (√पश् लोट् म.पु. )
मांसशोणितकर्दमम्मांस–शोणित–कर्दम (२.१)
हरीणांहरि (६.३)
राक्षसानांराक्षस (६.३)
(अव्ययः)
सीतेसीता (८.१)
विशसनंविशसन (१.१)
महत्महत् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा यो नंश्य
मां शोणिर्द मम्
री णां राक्ष सा नां
सी तेवि नं हत्