६.१११.५

तवहेतोर्विशालाक्षि रावणो निहतो मया ।
कुम्भकर्णोऽत्र निहतः प्रहस्तश्च निशाचरः ॥

पदच्छेदः

तवत्वद् (६.१)
हेतोर्हेतु (५.१)
विशालाक्षिविशाल–अक्ष (८.१)
रावणोरावण (१.१)
निहतोनिहत (√नि-हन् + क्त, १.१)
मयामद् (३.१)
कुम्भकर्णोकुम्भकर्ण (१.१)
ऽत्रअत्र (अव्ययः)
निहतःनिहत (√नि-हन् + क्त, १.१)
प्रहस्तश्चप्रहस्त (१.१)–च (अव्ययः)
निशाचरःनिशाचर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हे तोर्वि शा लाक्षि
रा णोनि तो या
कुम्भ र्णोऽत्रनि तः
प्र स्तश्चनि शा रः