६.११२.१४

समागमश्च त्रिदशैर्यथादत्तश्च ते वरः ।
सर्वं ममैतद्विदितं तपसा धर्मवत्सल ॥

पदच्छेदः

समागमश्चसमागम (१.१)–च (अव्ययः)
त्रिदशैर्त्रिदश (३.३)
यथायथा (अव्ययः)
दत्तश्चदत्त (√दा + क्त, १.१)–च (अव्ययः)
तेत्वद् (६.१)
वरःवर (१.१)
सर्वंसर्व (१.१)
ममैतद्मद् (६.१)–एतद् (१.१)
विदितंविदित (√विद् + क्त, १.१)
तपसातपस् (३.१)
धर्मवत्सलधर्म–वत्सल (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा श्चत्रि शै
र्य था त्तश्च ते रः
र्वं मैद्विदि तं
सार्मत्स