६.११२.१६

तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।
बाढमित्येव संहृष्टः श्रीमान्वरमयाचत ॥

अन्वयः

श्रीमान् glorious, नृपात्मजः son of emperor, सम्हृष्टः delighted, तस्य his, तत् that, वाक्यम् words, बाढम् इत्येव let you be auspicious, शिरसा bending head in reverence, प्रतिगृह्य taking, वरम् boon, अयाचतः requested

Summary

Glorious son of emperor obeying the words of Bharadwaja bending his head in reverence requested for that boon.

पदच्छेदः

तस्यतद् (६.१)
तच्छिरसातद् (२.१)–शिरस् (३.१)
वाक्यंवाक्य (२.१)
प्रतिगृह्यप्रतिगृह्य (√प्रति-ग्रह् + ल्यप्)
नृपात्मजःनृप–आत्मज (१.१)
बाढम्बाढ (१.१)
इत्येवइति (अव्ययः)–एव (अव्ययः)
संहृष्टःसंहृष्ट (√सम्-हृष् + क्त, १.१)
श्रीमान्श्रीमत् (१.१)
वरम्वर (२.१)
अयाचतअयाचत (√याच् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यच्छि सा वा क्यं
प्रति गृह्यनृ पात्म जः
बा मि त्ये सं हृ ष्टः
श्री मान्व या