६.११२.९

सर्वं च सुखदुःखं ते विदितं मम राघव ।
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् ॥

अन्वयः

राघव Raghava, जनस्थान्नव at Janasthana, धदिकम् sojourning, त्वया by you, विपुलम् abundance, यत् that which, सुखदुःखम् joy and sorrow, प्राप्तम् experienced, ते you, सर्वम् all, मम my, विदितम् is known

Summary

"Raghava, while you were sojourning at Janasthana, you experienced joy and sorrow abundantly all that is known to me."

पदच्छेदः

सर्वंसर्व (१.१)
(अव्ययः)
सुखदुःखंसुख–दुःख (१.१)
तेत्वद् (६.१)
विदितंविदित (√विद् + क्त, १.१)
मममद् (६.१)
राघवराघव (८.१)
यत्यद् (१.१)
त्वयात्वद् (३.१)
विपुलंविपुल (१.१)
प्राप्तंप्राप्त (√प्र-आप् + क्त, १.१)
जनस्थानवधादिकम्जनस्थान–वध–आदिक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वंसु दुः खं ते
विदि तं रा
त्त्व याविपु लं प्रा प्तं
स्था धादि कम्