६.११३.११

वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च ।
महादेवप्रसादाच्च पित्रा मम समागमम् ॥

अन्वयः

महेन्द्रेण by Mahendra, ब्रह्मणा by Brahma, वरुणेन च by Varuna, वरदानम् bestowing boon, महादेवप्रसादेन by the grace of Mahadeva, पित्रा father, मम me, समागमम् meeting

Summary

" About Mahendra accompanied by Brahma and Varuna bestowing boon and by the grace of Mahadeva and meeting my father."

पदच्छेदः

वरदानंवर–दान (२.१)
महेन्द्रेणमहत्–इन्द्र (३.१)
ब्रह्मणाब्रह्मन् (३.१)
वरुणेनवरुण (३.१)
(अव्ययः)
महादेवप्रसादाच्चमहादेव–प्रसाद (५.१)–च (अव्ययः)
पित्रापितृ (३.१)
मममद् (६.१)
समागमम्समागम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा नं हे न्द्रे
ब्रह्म णारु णे
हा देप्र सा दाच्च
पि त्रा मा मम्