६.११३.३०

उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ।
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः ॥

पदच्छेदः

उपस्थितम्उपस्थित (√उप-स्था + क्त, २.१)
अमात्यैश्चअमात्य (३.३)–च (अव्ययः)
शुचिभिश्चशुचि (३.३)–च (अव्ययः)
पुरोहितैःपुरोहित (३.३)
बलमुख्यैश्चबल–मुख्य (३.३)–च (अव्ययः)
युक्तैश्चयुक्त (√युज् + क्त, ३.३)–च (अव्ययः)
काषायाम्बरधारिभिःकाषाय–अम्बर–धारिन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्थि मा त्यैश्च
शुचि भिश्चपु रोहि तैः
मु ख्यैश्च यु क्तैश्च
का षा याम्ब धारि भिः