६.११३.४०

देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ।
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् ॥

पदच्छेदः

देवोदेव (१.१)
वावा (अव्ययः)
मानुषोमानुष (१.१)
वावा (अव्ययः)
त्वम्त्वद् (१.१)
अनुक्रोशाद्अनुक्रोश (५.१)
इहागतःइह (अव्ययः)–आगत (√आ-गम् + क्त, १.१)
प्रियाख्यानस्यप्रिय–आख्यान (६.१)
तेत्वद् (६.१)
सौम्यसौम्य (८.१)
ददामिददामि (√दा लट् उ.पु. )
ब्रुवतःब्रुवत् (√ब्रू + शतृ, ६.१)
प्रियम्प्रिय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे वो वा मानु षो वात्व
नु क्रो शादि हा तः
प्रि या ख्यास्य ते सौम्य
दा मिब्रु तःप्रि यम्