६.११३.४२

हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ।
सर्वाभरणसंपन्ना संपन्नाः कुलजातिभिः ॥

पदच्छेदः

हेमवर्णाःहेमन्–वर्ण (२.३)
सुनासोरूःसु (अव्ययः)–नासा–ऊरु (२.३)
शशिसौम्याननाःशशिन्–सौम्य–आनन (२.३)
स्त्रियःस्त्री (२.३)
सर्वाभरणसम्पन्नाःसर्व–आभरण–सम्पन्न (√सम्-पद् + क्त, २.३)
सम्पन्नाःसम्पन्न (√सम्-पद् + क्त, २.३)
कुलजातिभिःकुल–जाति (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हे र्णाःसु ना सो रूः
शि सौ म्या नाःस्त्रि यः
र्वा सं न्ना
सं न्नाःकु जाति भिः