६.११३.४३

निशम्य रामागमनं नृपात्मजः; कपिप्रवीरस्य तदाद्भुतोपमम् ।
प्रहर्षितो रामदिदृक्षयाभव;त्पुनश्च हर्षादिदमब्रवीद्वचः ॥

M N Dutt

And hearing from that leading monkey of that wonderful return of Rāma, the son of the king, delighted became anxious to behold him and again addressed joyously Hanuman with the following words.

पदच्छेदः

निशम्यनिशम्य (√नि-शामय् + ल्यप्)
रामागमनंराम–आगमन (२.१)
नृपात्मजःनृप–आत्मज (१.१)
कपिप्रवीरस्यकपि–प्रवीर (६.१)
तदाद्भुतोपमम्तदा (अव्ययः)–अद्भुत–उपम (२.१)
प्रहर्षितोप्रहर्षित (√प्र-हर्षय् + क्त, १.१)
रामदिदृक्षयाभवत्राम–दिदृक्षा (३.१)–अभवत् (√भू लङ् प्र.पु. एक.)
पुनश्चपुनर् (अव्ययः)–च (अव्ययः)
हर्षाद्हर्ष (५.१)
इदम्इदम् (२.१)
अब्रवीद्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वचःवचस् (२.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
निम्य रा मा नंनृ पात्म जः
पिप्र वीस्य दाद्भु तो मम्
प्रर्षि तो रादि दृक्ष या
त्पुश्च र्षादिब्र वीद्व चः