६.११४.१

बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् ।
शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥

अन्वयः

बहूनि many, वर्षाणि years, सुमहत् great, वनम् forest, गतस्य living, ममनाधस्य my Lord, प्रीतिकरम् returning, कीर्तनम् news, अहम् I, शृणोमिनाम hearing his name

M N Dutt

I hear the tidings of my brother affording me great delight who has been living in the huge forest for many a year.

Summary

"I am hearing the good news of my Lord returning from the forest, who was living in the great forest for many years."

पदच्छेदः

बहूनिबहु (१.३)
नामनाम (अव्ययः)
वर्षाणिवर्ष (१.३)
गतस्यगत (√गम् + क्त, ६.१)
सुमहद्सु (अव्ययः)–महत् (२.१)
वनम्वन (२.१)
शृणोम्यहंशृणोमि (√श्रु लट् उ.पु. )–मद् (१.१)
प्रीतिकरंप्रीति–कर (२.१)
मममद् (६.१)
नाथस्यनाथ (६.१)
कीर्तनम्कीर्तन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हूनि ना र्षाणि
स्यसुद्व नम्
शृ णोम्य हं प्रीति रं
नास्य कीर्त नम्