६.११४.१४

शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः ।
अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत् ॥

अन्वयः

शरभङ्गे Sarabhanga, दिवम् heaven, प्राप्ते attained, सत्यपराक्रमः of truthful valour, रामः Rama, सर्वान् all, मुनीन् sages, अभिवाद्य greeting, जनस्थानम् Janasthana, उपागमत् reached

M N Dutt

Śarabhanga having attained to heaven, Rāma, having truth for his prowess, saluting all the ascetics, repaired to Janasthāna.

पदच्छेदः

शरभङ्गेशरभङ्ग (७.१)
दिवंदिव् (२.१)
प्राप्तेप्राप्त (√प्र-आप् + क्त, ७.१)
रामःराम (१.१)
सत्यपराक्रमःसत्य–पराक्रम (१.१)
अभिवाद्यअभिवाद्य (√अभि-वादय् + ल्यप्)
मुनीन्मुनि (२.३)
सर्वाञ्सर्व (२.३)
जनस्थानम्जनस्थान (२.१)
उपागमत्उपागमत् (√उप-गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ङ्गेदि वं प्रा प्ते
रा मःत्य राक्र मः
भि वाद्यमु नी न्स र्वा
ञ्ज स्थामु पा मत्