६.११४.१७

प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः ।
ततस्तेनार्दिता बाला रावणं समुपागता ॥

पदच्छेदः

प्रगृह्यप्रगृह्य (√प्र-ग्रह् + ल्यप्)
खड्गंखड्ग (२.१)
चिछेदचिछेद (√छिद् लिट् प्र.पु. एक.)
कर्णनासेकर्ण–नासा (२.२)
महाबलःमहत्–बल (१.१)
ततस्तेनार्दिताततस् (अव्ययः)–तद् (३.१)–अर्दित (√अर्दय् + क्त, १.१)
बालाबाला (१.१)
रावणंरावण (२.१)
समुपागतासमुपागत (√समुपा-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र गृह्य ड्गं चि च्छे
र्ण ना से हा लः
स्ते नार्दि ता बा ला
रा णंमु पा ता