६.११४.४

स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः ।
आचचक्षे ततः सर्वं रामस्य चरितं वने ॥

अन्वयः

बृस्याम् on the kusa grass, समुपवेशितः seated comfortably, राजपुत्रेण prince, पृष्टः joy, सः he, ततः then, वने in the forest, रामस्य Rama's, सर्वम् all, चरितम् history, आचचक्षे wish to hear

M N Dutt

Being thus accosted by the prince and seated on Kusa, he, thereupon, began to describe Rama's life in the forest.

Summary

Prince Bharata seated comfortably on kusa grass asked Hanuman for all the history that happened in the forest, wishing to hear from him.

पदच्छेदः

तद् (१.१)
पृष्टोपृष्ट (√प्रच्छ् + क्त, १.१)
राजपुत्रेणराजन्–पुत्र (३.१)
बृस्यांबृसी (७.१)
समुपवेशितःसमुपवेशित (√समुप-वेशय् + क्त, १.१)
आचचक्षेआचचक्षे (√आ-चक्ष् लिट् प्र.पु. एक.)
ततःततस् (अव्ययः)
सर्वंसर्व (२.१)
रामस्यराम (६.१)
चरितंचरित (२.१)
वनेवन (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पृ ष्टो रा पु त्रे
बृ स्यांमु वेशि तः
क्षे तः र्वं
रास्यरि तं ने