६.११४.५

यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव ।
यथा च पुत्रशोकेन राजा दशरथो मृतः ॥

पदच्छेदः

यथायथा (अव्ययः)
प्रव्रजितोप्रव्रजित (√प्र-व्रज् + क्त, १.१)
रामोराम (१.१)
मातुर्मातृ (६.१)
दत्तेदत्त (√दा + क्त, ७.१)
वरेवर (७.१)
तवत्वद् (६.१)
यथायथा (अव्ययः)
(अव्ययः)
पुत्रशोकेनपुत्र–शोक (३.१)
राजाराजन् (१.१)
दशरथोदशरथ (१.१)
मृतःमृत (√मृ + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था प्रव्रजि तो रा मो
मा तु र्द त्ते रे
था पुत्र शो के
रा जा थोमृ तः