६.११४.६

यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो ।
त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥

पदच्छेदः

यथायथा (अव्ययः)
दूतैस्त्वम्दूत (३.३)–त्वद् (१.१)
आनीतस्तूर्णंआनीत (√आ-नी + क्त, १.१)–तूर्णम् (अव्ययः)
राजगृहात्राजन्–गृह (५.१)
प्रभोप्रभु (८.१)
त्वयायोध्यांत्वद् (३.१)–अयोध्या (२.१)
प्रविष्टेनप्रविष्ट (√प्र-विश् + क्त, ३.१)
यथायथा (अव्ययः)
राज्यंराज्य (१.१)
(अव्ययः)
चेप्सितम् (अव्ययः)–ईप्सित (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

था दू तैस्त्व मा नी
स्तू र्णं रागृ हात्प्र भो
त्व या यो ध्यांप्र वि ष्टे
था रा ज्यं चेप्सि तम्