६.११४.८

स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् ।
आर्यस्य पादुके गृह्य यथासि पुनरागतः ॥

पदच्छेदः

स्थितेनस्थित (√स्था + क्त, ३.१)
राज्ञोराजन् (६.१)
वचनेवचन (७.१)
यथायथा (अव्ययः)
राज्यंराज्य (१.१)
विसर्जितम्विसर्जित (√वि-सर्जय् + क्त, १.१)
आर्यस्यआर्य (६.१)
पादुकेपादुका (२.२)
गृह्यगृह्य (√ग्रह् + क्त्वा)
यथासियथा (अव्ययः)–असि (√अस् लट् म.पु. )
पुनर्पुनर् (अव्ययः)
आगतःआगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्थि ते रा ज्ञो ने
था रा ज्यंविर्जि तम्
र्यस्य पादु के गृह्य
थासिपु रा तः