६.११४.९

सर्वमेतन्महाबाहो यथावद्विदितं तव ।
त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे ॥

पदच्छेदः

सर्वम्सर्व (१.१)
एतन्महाबाहोएतद् (१.१)–महत्–बाहु (८.१)
यथावद्यथावत् (अव्ययः)
विदितंविदित (√विद् + क्त, १.१)
तवत्वद् (६.१)
त्वयित्वद् (७.१)
प्रतिप्रयातेप्रतिप्रयात (√प्रतिप्र-या + क्त, ७.१)
तुतु (अव्ययः)
यद्यद् (१.१)
वृत्तंवृत्त (√वृत् + क्त, १.१)
तन्निबोधतद् (२.१)–निबोध (√नि-बुध् लोट् म.पु. )
मेमद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्व मेन्म हा बा हो
थाद्विदि तं
त्व यिप्र तिप्र या तेतु
द्वृ त्तंन्नि बो मे