६.११५.१३

माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः ।
शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ॥

पदच्छेदः

माल्यमोदकहस्तैश्चमाल्य–मोदक–हस्त (३.३)–च (अव्ययः)
मन्त्रिभिर्मन्त्रिन् (३.३)
भरतोभरत (१.१)
वृतःवृत (√वृ + क्त, १.१)
शङ्खभेरीनिनादैश्चशङ्ख–भेरी–निनाद (३.३)–च (अव्ययः)
बन्दिभिश्चाभिवन्दितःबन्दिन् (३.३)–च (अव्ययः)–अभिवन्दित (√अभि-वन्द् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

माल्य मो स्तैश्च
न्त्रि भिर्भ तोवृ तः
ङ्ख भे रीनि ना दैश्च
न्दि भि श्चाभिन्दि तः