६.११५.२१

निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ।
मन्ये वानरसेना सा नदीं तरति गोमतीम् ॥

M N Dutt

Hear the dreadful noise of the delighted monkeys. Methinks the monkey host has crossed the river Gomati.

पदच्छेदः

निस्वनःनिस्वन (१.१)
श्रूयतेश्रूयते (√श्रु प्र.पु. एक.)
भीमःभीम (१.१)
प्रहृष्टानांप्रहृष्ट (√प्र-हृष् + क्त, ६.३)
वनौकसाम्वनौकस् (६.३)
मन्येमन्ये (√मन् लट् उ.पु. )
वानरसेनावानर–सेना (१.१)
सातद् (१.१)
नदींनदी (२.१)
तरतितरति (√तृ लट् प्र.पु. एक.)
गोमतीम्गोमती (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

निस्व नः श्रू ते भी मः
प्र हृ ष्टा नां नौ साम्
न्ये वा से ना सा
दींति गो तीम्