६.११५.२३

तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम् ।
विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥

अन्वयः

चन्द्रसन्निभम् resembling the moon, तत् that, एतत् this, विमानम् aerial car, दूरात् at a distance, दृश्यते is seen, दिव्यम् wonderful, पुष्पकंविमानम् Pushpaka, ब्रह्मणा by Brahma, मनसा by his mind, निर्मितम् created

Summary

Pushpaka is seen at a distance, resembling the moon. This wonderful Pushpaka has been created through Brahma's mind.

पदच्छेदः

तद्तद् (१.१)
एतद्एतद् (१.१)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
दूराद्दूर (५.१)
विमलंविमल (१.१)
चन्द्रसंनिभम्चन्द्र–संनिभ (१.१)
विमानंविमान (१.१)
पुष्पकंपुष्पक (१.१)
दिव्यंदिव्य (१.१)
मनसामनस् (३.१)
ब्रह्मनिर्मितम्ब्रह्मन्–निर्मित (√निः-मा + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे द्दृश्य ते दू रा
द्वि लंन्द्र संनि भम्
वि मा नं पुष्प कं दि व्यं
सा ब्रह्म निर्मि तम्