६.११५.३

राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः ।
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ॥

पदच्छेदः

राजदारास्तथामात्याःराजन्–दार (१.३)–तथा (अव्ययः)–अमात्य (१.३)
सैन्याःसैन्य (१.३)
सेनागणाङ्गनाःसेना–गण–अङ्गना (१.३)
अभिनिर्यान्तुअभिनिर्यान्तु (√अभिनिः-या लोट् प्र.पु. बहु.)
रामस्यराम (६.१)
द्रष्टुंद्रष्टुम् (√दृश् + तुमुन्)
शशिनिभंशशिन्–निभ (२.१)
मुखम्मुख (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा दा रास्त था मा त्याः
सै न्याः से ना णाङ्ग नाः
भि नि र्यान्तु रास्य
द्र ष्टुंशिनि भंमु खम्