६.११५.३१

आरोपितो विमानं तद्भरतः सत्यविक्रमः ।
राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥

अन्वयः

ततविमानम् that Pushpaka, आरोपितः lifted on, सत्यविक्रमः unfailing valour, भरतः Bharata, रामम् Rama, आसाद्य reached, पुनरेव once again, अभ्यवादयत् greeted

M N Dutt

Ascending that car, Bharata, having truth for his prowess, reaching Rāma, delighted, again bowed to him.

Summary

Bharata of unfailing valour duly permitted to ascend Pushpaka by Sri Rama, reached Rama and once again offered salutations to Rama.

पदच्छेदः

आरोपितोआरोपित (√आ-रोपय् + क्त, १.१)
विमानंविमान (२.१)
तद्तद् (२.१)
भरतःभरत (१.१)
सत्यविक्रमःसत्य–विक्रम (१.१)
रामम्राम (२.१)
आसाद्यआसाद्य (√आ-सादय् + ल्यप्)
मुदितःमुदित (√मुद् + क्त, १.१)
पुनर्पुनर् (अव्ययः)
एवाभ्यवादयत्एव (अव्ययः)–अभ्यवादयत् (√अभि-वादय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रोपि तोवि मा नं
द्भ तःत्य विक्र मः
रा मा साद्यमुदि तः
पु रे वाभ्य वा यत्