६.११५.६

सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ।
ततोऽभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः ॥

अन्वयः

कृत्स्नाम् in the ground, पृथिवीम् soil, हिमशीतेव with cold water, वारिणा water, सिञ्चस्तु sprinkle small drops, ततः then, अन्ये other, सर्वतः all over, लाजैः parched grain, पुष्पैश्च flowers, अभ्यवकिरन्तु strew

Summary

Let the ground be sprinkled with cold water and then parched grain and flowers to be sprinkled.

पदच्छेदः

सिञ्चन्तुसिञ्चन्तु (√सिच् लोट् प्र.पु. बहु.)
पृथिवींपृथिवी (२.१)
कृत्स्नांकृत्स्न (२.१)
हिमशीतेनहिम–शीत (३.१)
वारिणावारि (३.१)
ततोततस् (अव्ययः)
ऽभ्यवकिरंस्त्वन्येअभ्यवकिरन् (√अभ्यव-कृ लङ् प्र.पु. बहु.)–तु (अव्ययः)–अन्य (१.३)
लाजैःलाज (३.३)
पुष्पैश्चपुष्प (३.३)–च (अव्ययः)
सर्वतःसर्वतस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सि ञ्चन्तुपृथि वीं कृ त्स्नां
हि शी ते वारि णा
तोऽभ्यकि रं स्त्व न्ये
ला जैः पु ष्पैश्चर्व तः