६.११६.६३

भूमिः सस्यवती चैव फलवन्तश्च पादपाः ।
गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥

अन्वयः

राघवोत्सवे at the celebration of Rama, भूमिः earth, सस्यवती as green with crops, पादपाः trees, फलवन्तश्च filled with fruits, पुष्पाणि flowers, गन्धवन्ति च spread fragrance, बभूवुः became

M N Dutt

The earth was filled with crops, the trees with fruits and the flowers were fragrant on the occassion of Rāghava's installation.

Summary

At the time of celebration of Rama's coronation, earth became green with crops, trees bore fruits and filled with flowers which spread fragrance.

पदच्छेदः

भूमिःभूमि (१.१)
सस्यवतीसस्यवत् (१.१)
चैव (अव्ययः)–एव (अव्ययः)
फलवन्तश्फलवत् (१.३)
(अव्ययः)
पादपाःपादप (१.३)
गन्धवन्तिगन्धवत् (१.३)
(अव्ययः)
पुष्पाणिपुष्प (१.३)
बभूवूबभूवुः (√भू लिट् प्र.पु. बहु.)
राघवोत्सवेराघव–उत्सव (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भू मिःस्य ती चै
न्तश्च पा पाः
न्धन्ति पु ष्पाणि
भू वू रा वोत्स वे