६.११६.७२

पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा ।
ददौ सा वायुपुत्राय तं हारमसितेक्षणा ॥

पदच्छेदः

पौरुषंपौरुष (१.१)
विक्रमोविक्रम (१.१)
बुद्धिर्बुद्धि (१.१)
यस्मिन्न्यद् (७.१)
एतानिएतद् (१.३)
नित्यदानित्यदा (अव्ययः)
ददौददौ (√दा लिट् प्र.पु. एक.)
सातद् (१.१)
वायुपुत्रायवायुपुत्र (४.१)
तंतद् (२.१)
हारम्हार (२.१)
असितेक्षणाअसित–ईक्षण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पौरु षं विक्र मो बुद्धि
र्य स्मि न्ने तानि नित्य दा
दौ सा वायु पु त्रा
तं हासि तेक्ष णा