६.११६.८०

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः ॥

अन्वयः

धर्मात्मा righteous, राघवश्चापि Rama too, अनुत्तमम् supreme, राज्यम् kingdom, प्राप्य having inherited, ससुतभ्रातृबान्धवः with brothers, friends and relatives, बहुविधैः of several kinds, यज्ञैः sacrifices, ईजे held

M N Dutt

Obtaining that excellent kingdom, the virtuous souled Raghava performed many sacrifices with his sons, brothers and friends.

Summary

Righteous Rama also, having inherited the kingdom, conducted several sacrifices with brothers, friends and relatives.

पदच्छेदः

राघवश्राघव (१.१)
चापि (अव्ययः)–अपि (अव्ययः)
धर्मात्माधर्म–आत्मन् (१.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
राज्यम्राज्य (२.१)
अनुत्तमम्अनुत्तम (२.१)
ईजेईजे (√यज् लिट् प्र.पु. एक.)
बहुविधैर्बहुविध (३.३)
यज्ञैःयज्ञ (३.३)
ससुहृद्भ्रातृबान्धवः (अव्ययः)–सुहृद्–भ्रातृ–बान्धव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा श्चापि र्मा त्मा
प्राप्य राज्य नुत्त मम्
जेहुवि धै र्य ज्ञैः
सु हृ द्भ्रातृ बान्ध वः