६.११६.८६

सर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् ।
राममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥

अन्वयः

सर्वम् all, मुदितमेव happy, आसीत् remained, सर्वः all, धर्मपरः followed the righteous path, अभवत् became, राममेव Rama alone, अनुपश्यन्तः looking at Rama, परस्परम् one another, नाभ्यहिंसन् not hurt

M N Dutt

All were delighted and devoted to pious observances. And beholding Rāma they did not envy one another.

Summary

All were happy, and followed the righteous path, looking at Rama alone and no one hit another.

पदच्छेदः

सर्वंसर्व (१.१)
मुदितम्मुदित (√मुद् + क्त, १.१)
एवासीत्एव (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
सर्वोसर्व (१.१)
धर्मपरोधर्म–पर (१.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)
रामम्राम (२.१)
एवानुपश्यन्तोएव (अव्ययः)–अनुपश्यत् (√अनु-पश् + शतृ, १.३)
नाभ्यहिंसन् (अव्ययः)–अभ्यहिंसन् (√अभि-हिंस् लङ् प्र.पु. बहु.)
परस्परम्परस्पर (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वंमुदि मे वा सी
त्स र्वोर्म रोऽभ वत्
रा मे वानु श्य न्तो
नाभ्य हिंन्पस्प रम्