६.१२.११

श्रूयते हि कपोतेन शत्रुः शरणमागतः ।
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥

अन्वयः

कपोतेन: by a dove, शरणम् to seek refuge, आगतः came, शत्रुः enemy, यथान्यायम् according to practice, आर्चितश्च: offered, स्वैः its own, मांसैः flesh, निमन्त्रितश्च: without any jealousy, श्रूयतेहि: have heard.

M N Dutt

I have heard of a pigeon adoring and entertaining with its own flesh, an enemy who took its shelter.

Summary

"You have heard of the (story of a) dove that offered his own flesh to an enemy who came to seek protection according to tradition (of hospitality)."

पदच्छेदः

श्रूयतेश्रूयते (√श्रु प्र.पु. एक.)
हिहि (अव्ययः)
कपोतेनकपोत (३.१)
शत्रुःशत्रु (१.१)
शरणम्शरण (२.१)
आगतःआगत (√आ-गम् + क्त, १.१)
अर्चितश्चअर्चित (√अर्चय् + क्त, १.१)–च (अव्ययः)
यथान्यायंयथान्यायम् (अव्ययः)
स्वैश्चस्व (३.३)–च (अव्ययः)
मांसैर्मांस (३.३)
निमन्त्रितःनिमन्त्रित (√नि-मन्त्रय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रू तेहि पो ते
त्रुः मा तः
र्चिश्च था न्या यं
स्वैश्च मां सैर्निन्त्रि तः